Home » NCERT Solutions » मनःपूतं समाचरेत् – NCERT Solutions Class 9 Sanskrit Sharda

मनःपूतं समाचरेत् – NCERT Solutions Class 9 Sanskrit Sharda

मनःपूतं समाचरेत् – NCERT Solutions Class 9 Sanskrit Sharda includes all the questions with solutions given in NCERT Class 9 Sanskrit Sharda textbook.

NCERT Solutions Class 9

English Kaveri Hindi Ganga Sanskrit Sharada Maths Ganita Manjari Science Exploration Social Understanding Society

मनःपूतं समाचरेत् – NCERT Solutions

Q.1: लोकः कस्य आचरणम् अनुकरोति?

Solution: लोकः श्रेष्ठस्य आचरणम् अनुकरोति।

Q.2: कीदृशी वाणी वक्तव्या?

Solution: सत्यपूता वाणी वक्तव्या।

Q.3: लक्ष्मीः कम् उपैति?

Solution: लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।

Q.4: उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?

Solution: उत्तमजनाः कार्यं प्रारभ्य विघ्नैः प्रतिहन्यमानाः अपि न परित्यजन्ति।

Q.5: धर्मस्य लक्षणानि कानि?

Solution: धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः च इति दशकं धर्मलक्षणम् अस्ति।

Q.6: सकलाः कलाः कस्मात् सिध्यन्ति?

Solution: सकलाः कलाः अभ्यासात् सिध्यन्ति।

Q.7: सम्पदः कं वृणते?

Solution: सम्पदः स्वयमेव विमृश्यकारिणं वृणते।

Q.8: __ परमापदां पदम्।

Solution: अविवेकः

Q.9: सन्तः __ अन्यतरद् भजन्ते।

Solution: परीक्ष्य

Q.10: दैवं निहत्य कुरु __ आत्मशक्त्या।

Solution: पौरुषम्

Q.11: स यत् __ कुरुते।

Solution: प्रमाणं

Q.12: धीर्विद्या सत्यमक्रोधो __ धर्मलक्षणम्।

Solution: दशकं

Q.13: नीचैः विघ्नभयेन कार्यं न प्रारभ्यते।

Solution: कैः विघ्नभयेन कार्यं न प्रारभ्यते?

Q.14: सकलाः कलाः अभ्यासात् सिध्यन्ति।

Solution: सकलाः कलाः कस्मात् सिध्यन्ति

Q.15: वस्त्रपूतं जलं पिबेत्।

Solution: कीदृशं जलं पिबेत्?

Q.16: लक्ष्मीः पुरुषसिंहम् उपैति।

Solution: लक्ष्मीः कम् उपैति?

Q.17: सन्तः परीक्ष्य अन्यतरद् भजन्ते।

Solution: के परीक्ष्य अन्यतरद् भजन्ते?

Q.18: क्रियां सहसा न विदधीत।

Solution: काम् सहसा न विदधीत?

Q.19: अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत्।।

अस्मिन् श्लोके प्रथमं क्रियापदं किम्?
कं न्यसेत्?
कीदृशं पादं न्यसेत्?
द्वितीयं कि क्रियापदम् अस्ति?
किं पिबेत्?
कीदृशं जलं पिबेत्?
तृतीयं किं क्रियापदम् अस्ति?
कां वदेत्?
कीदृशीं वाणीं वदेत्?
चतुर्थ किं क्रियापदम् अस्ति?
कथं समाचरेत्?

Solution:
न्यसेत्
पादं न्यसेत्
दृष्टिपूतं पादं न्यसेत्
पिबेत्
जलं पिबेत्
वस्त्रपूतं जलं पिबेत्
वदेत्
वाचं वदेत्
त्यपूतां वाणीं वदेत्
समाचरेत्
मनःपूतं समाचरेत्

Q.20: मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत-

[बुद्धिः, लक्ष्यं, पुरुषस्य, अभिप्रायं, धीराः, नूतनम्]

लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति। ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साध्यन्ति ते एव । प्रयत्नं कृत्वा अपि यदि न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।
पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव
 अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तम स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् श्रुत्वा तदनुसारेण प्रवर्तन्ते।

Solution:
लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः पुरुषस्य समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति। ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साध्यन्ति ते एव धीराः। प्रयत्नं कृत्वा अपि यदि लक्ष्यं न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।
पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव नूतनम् अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां बुद्धिः पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तम स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् अभिप्रायं श्रुत्वा तदनुसारेण प्रवर्तन्ते।

Q.21: श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत-

सर्वाः अभ्यासेन (सिध्यन्ति)। कला: अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) (सिध्यति)। अभ्यासस्य किम् (अस्ति)?
श्रेष्ठः यत् यत् इतरः जनः तत् तत् एव (आचरति)। स: यत् कुरुते, लोकः तत् __

Solution:
सर्वाः विद्याः अभ्यासेन (सिध्यन्ति)। सकलाः कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) अभ्यासात् (सिध्यति)। अभ्यासस्य असाध्यं किम् (अस्ति)?
श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव (आचरति)। स: यत् प्रमाणं कुरुते, लोकः तत् अनुवर्ततेI

Q.22: यथोचितं मेलनं कुरुत-

श्लोकांशः स्रोतोग्रन्थः
(क) पुराणमित्येव न साधु सर्वम् (1) मनुस्मृति
(ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति (2) पञ्चतन्त्रम्
(ग) यद्यदाचरति श्रेष्ठः (3) नीतिशतकम्
(घ) धृतिः क्षमा दमोऽस्तेयम् (4) मालविकाग्निमित्रम्
(ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः (5) श्रीमद्भगवद्गीता

Solution:
(क) – (4), (ख) – (3), (ग) – (5), (घ) – (1), (ङ) – (2)

Q.23: रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत-

यथा- यो बहून्यपि साधयेत् ⋯’ = बहूनि + अपि 

धृतिः क्षमा दमोऽस्तेयम्।
पुराणमित्येव न साधु सर्वम्।
विघ्नैः पुनरपि प्रतिहन्यमानाः।
प्रारभ्य चोत्तमजनाः न परित्यजन्ति।
विघ्नविहता विरमन्ति मध्याः।
लोकस्तदनुवर्तते।
सन्तः परीक्ष्यान्यतरद्भजन्ते।

Solution:
दमः + अस्तेयम्
पुराणम् + इति + एव
पुनः + अपि
च + उत्तमजनाः
विघ्न + विहताः
लोकः + तत् + अनुवर्तते
परीक्ष्य + अन्यतरत् + भजन्ते

Q.24: अत्र कतिचन विग्रहवाक्यानि दत्तानि सन्ति । तेषां समस्तपदानि पाठात् चित्वा लिखत-

विग्रहवाक्यानि समस्तपदानि
यथा — मनसा पूतं समाचरेत् मनःपूतम
(क) विघ्नैः विहताः (कार्यात्) विरमन्ति।  
(ख) वस्त्रेण पूतं जलं पिबेत्।  
(ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः।  
(घ) उत्तमाः जनाः न परित्यजन्ति।  
(ङ) न विवेकः परमापदां पदम्।

Solution:
विग्रहवाक्यानि समस्तपदानि
(क) विघ्नैः विहताः (कार्यात्) विरमन्ति। विघ्नविहताः
(ख) वस्त्रेण पूतं जलं पिबेत्। वस्त्रपूतम्
(ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः। पुरुषसिंहम्
(घ) उत्तमा: जनाः न परित्यजन्ति। उत्तमजनाः
(ङ) न विवेकः परमापदां पदम्। अविवेकः

Class 9 Sanskrit Sharda NCERT Solutions

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

Learn8 App

Practice unlimited questions for Entrance tests & government job exams at ₹99 only

Install Now