Home » NCERT Solutions » न खलु वयस्तेजसो हेतुः – NCERT Solutions Class 9 Sanskrit Sharda

न खलु वयस्तेजसो हेतुः – NCERT Solutions Class 9 Sanskrit Sharda

न खलु वयस्तेजसो हेतुः – NCERT Solutions Class 9 Sanskrit Sharda includes all the questions with solutions given in NCERT Class 9 Sanskrit Sharda textbook.

NCERT Solutions Class 9

English Kaveri Hindi Ganga Sanskrit Sharada Maths Ganita Manjari Science Exploration Social Understanding Society

न खलु वयस्तेजसो हेतुः – NCERT Solution

Q.1: खुदीरामस्य जन्म कुत्र अभवत्?

Solution: खुदीरामस्य जन्म बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे अभवत्।

Q.2: खुदीरामः किमर्थं व्यथितः भवति स्म?

Solution: खुदीरामः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।

Q.3: सत्येन्द्रनाथः किम् उपदिष्टवान्?

Solution: सत्येन्द्रनाथः उपदिष्टवान् – “क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत्” इति।

Q.4: खुदीरामः कदा पर्यन्तं पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान्?

Solution: ‘यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि’ इति खुदीरामः प्रतिज्ञातवान्।

Q.5: किमर्थ न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः?

Solution: मृत्युदण्डस्य घोषणां श्रुत्वापि खुदीरामस्य मुखे भयं दुःखं वा नासीत्, प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत्, एतत् दृष्ट्वा ते चकिताः अभवन।

Q.6: देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति।

Options:
(1) सत्यम् ✅
(2) असत्यम्

Q.7: निर्दयः किङ्ग्ज़फोर्ड् बालान् अपि दण्डयति स्म।

Options:
(1) सत्यम् ✅
(2) असत्यम्

Q.8: खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः।

Options:
(1) सत्यम्
(2) असत्यम् ✅

Explanation: यद्यपि खुदीरामेण प्रफुल्लेन च किङ्ग्ज़फोर्ड् महोदयस्य रथस्य उपरि विस्फोटकं प्रक्षिप्तम् , तथापि तस्मिन् रथे किङ्ग्ज़फोर्ड् नासीत्। तस्मिन् रथे केनेडीनामकस्य अधिकारिणः पत्नी पुत्री च आस्ताम्। विस्फोटनेन ते मृते, किन्तु किङ्ग्ज़फोर्ड् रक्षितः (सः न मृतः)। अतः ‘खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः’ इति वाक्यम् असत्यम् अस्ति।

Q.9: खुदीरामः किङ्ग्ज़फोर्डमहोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान्।

Options:
(1) सत्यम् ✅
(2) असत्यम्

Q.10: खुदीरामः बालानां सङ्घटनं कृत्वा पदयात्राम् आयोजयति स्म।

Options:
(1) सत्यम् ✅
(2) असत्यम्

Q.11: अधः प्रदत्तानां संवत्सराणां शब्दानाम् अङ्कैः सह मेलनं कुरुत-

(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम् 1. १९०५
(ख) अष्टाधिक-नवदशशततमं वर्षम् 2. १८८९
(ग) पञ्चाशदुत्तर-नवदशशततमं वर्षम् 3. १९४७
(घ) पञ्चाधिक-नवदशशततमं वर्षम् 4. १९०८
(ङ) नवाशीत्यधिक-अष्टादशशततमं वर्षम् 5. १९५०

Solution: (क) – (3), (ख) – (4), (ग) – (5), (घ) – (1), (ङ) – (2)

Q.12: अधः प्रदत्तानि पदानि आधृत्य चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत-

[उद्यानं, गृहाणि, पक्षिणः, पुष्पाणि, स्वच्छता, द्विचक्रिका, पर्वतः, वृक्षाः, सूर्यः, मेघाः]

Solution:
एतत् सुन्दरम् उद्यानं अस्ति यत्र बहवः वृक्षाः सन्ति।
उद्याने रंग-बिरङ्गाणि पुष्पाणि शोभन्ते।
आकाशे सूर्यः प्रकाशते तथा मेघाः अपि दृश्यन्ते।
वृक्षेषु पक्षिणः कूजन्ति।
मार्गे द्विचक्रिका अस्ति तथा सर्वत्र स्वच्छता दृश्यते।

Q.13: इत्यादयः

Solution: इति + आदयः

Q.14: सर्वेऽपि

Solution: सर्वेऽपि = सर्वे + अपि=

Q.15: कश्चित्

Solution: कश्चित् = कः + चित्

Q.16: प्रत्येकम्

Solution: प्रत्येकम् = प्रति + एकम्

Q.17: वयस्तेजसः

Solution: वयस्तेजसः = वयः + तेजसः

Q.18: अचिरादेव

Solution: अचिरादेव = अचिरात् + एव

Q.19: विग्रहवाक्यं दृष्ट्वा पाठ्यपुस्तकात् समस्तपदानि चित्वा पूरयत-

देशस्य भक्ताः 
बालः च क्रान्तिवीरः च

वज्रेण सदृशम्
असेः धारा

मृत्युः एव दण्डः
न साधारणः

निर्गता दया यस्मात् सः __

Solution:
देशस्य भक्ताः = देशभक्ताः
बालः च क्रान्तिवीरः च = बालक्रान्तिवीरः

वज्रेण सदृशम् = वज्रसदृशम्

असेः धारा = असिधारा

मृत्युः एव दण्डः = मृत्युदण्डः

न साधारणः = असाधारणः

निर्गता दया यस्मात् सः = निर्दयः

Q.20: लङ्लकारः, क्तवतु-प्रत्ययः, स्म, क्तप्रत्ययः – एते सर्वेऽपि भूतकालं सूचयन्ति। अधः दत्तानि वाक्यानि सूचनानुसारं परिवर्तयत –
यथा – खुदीरामः हुतात्मा जातः। (लङ्-लकारः)
खुदीरामः हुतात्मा अजायत।

वन्दे मातरम् इत्यादयः घोषणा: भवन्ति स्म। (लङ्-लकार:)
सत्येन्द्रनाथः खुदीरामम् उपादिशत्। (क्तवतु-प्रत्ययः)
सः नवर्मीं कक्षां पूर्णां कर्तुं न शक्तवान्। (लङ्-लकार:)
क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् अजनयन्। (स्म)
प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं कृतवान्। (लङ्-लकारः)

Solution:
वन्दे मातरम् इत्यादयः घोषणाः अभवन्।
सत्येन्द्रनाथः खुदीरामम् उपदिष्टवान्।
सः नवमीं कक्षां पूर्णां कर्तुं न अशक्नोत्।
क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् जनयन्ति स्म।
प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारम् अकरोत्।

Q.21: पाठे कदाचित्, कस्यचित्, इति एवं विधानि पदानि सन्ति। एतानि ‘चित्’ प्रत्यययुक्तानि अव्ययानि भवन्ति। एतानि पदानि विशेषणानि भवन्ति। चित् प्रत्ययस्य योजनेन अर्थे अनिश्चयस्य भाव: सूच्यते। यथा-

कदा + चित् कदाचित् कस्य + चित् कस्यचित्
केन + चित् केनचित् कुत्र + चित् कुत्रचित्
कति + चित् कतिचित् कुतः + चित् कुतश्चित्
कथं + चित् कथञ्चित् का + चित् काचित्
कः + चित् कश्चित् कि + चित् किज्चित्

उदाहरणानुसारं चित्-प्रत्ययान्तपदानि प्रयुज्य रिक्तस्थाने पूर्णवाक्यं लिखत-

[कश्चित्, काचित्, किज्चित्, कुत्रचित्, कदाचित्]

बालकः गच्छति। …कश्चित् बालकः गच्छति।…
बालिका गच्छति।
फलं खादतु।
लेखनी लुप्ता।
सः आगच्छेत्।

Solution:
कश्चित् बालकः गच्छति।
काचित् बालिका गच्छति।
किञ्चित् फलं खादतु।
कुत्रचित् लेखनी लुप्ता।
कदाचित् सः आगच्छेत्।

Class 9 Sanskrit Sharda NCERT Solutions

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

Learn8 App

Practice unlimited questions for Entrance tests & government job exams at ₹99 only

Install Now