CBSE Sample Papers Class 10 Sanskrit 2019



CBSE Sample Papers 2018-19

CBSE Sample Papers Class 10 Sanskrit 2019 The new marking scheme and blueprint for Class 10 have been released by CBSE. We are providing Sanskrit sample papers for Class 10 CBSE exams. Sample Papers are available for free download in myCBSEguide app and website in PDF format. CBSE Sample Papers Class 10 Sanskrit With Solutions of 10 Sanskrit are made available by CBSE exams are over. CBSE marking scheme and blue print is provided along with the Sample Papers. This helps students find answer the most frequently asked question, How to prepare for CBSE exams. CBSE Sample Papers of Class 10 Sanskrit for 2018 Download the app today to get the latest and up-to-date study material. CBSE sample paper for Class 10 Sanskrit with questions and answers (solution).

sample papers for class 10 Sanskrit 2018-19

Download as PDF

CBSE Sample Papers Class 10 Sanskrit 2019

CBSE Sample Papers Class 10 Sanskrit myCBSEguide provides CBSE Class 10 Sample Papers of Sanskrit for the year 2018, 2019,2020 with solutions in PDF format for free download. The CBSE Sample Papers for all – NCERT books and based on CBSE latest syllabus must be downloaded and practiced by students. Class 10 Sanskrit New Sample Papers follow the blueprint of that year only. Student must check the latest syllabus and marking scheme. Sample paper for Class 10 Sanskrit and other subjects are available for download as PDF in-app too. myCBSEguide provides sample paper with solutions for the year 2018, 2019, 2020.

CBSE Sample Papers Class 10 Sanskrit

समयः – होरात्रयम्
सम्पूर्णाङ्काः – 80

सामान्य निर्देशाः-

  • प्रश्नपत्रस्वरूपम्-
    खण्डः क : अपठितांश-अवबोधनम्। (10 अङ्काः)
    खण्डः ख : रचनात्मककार्यम् (15 अङ्काः)
    खण्डः ग : अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
    खण्डः घ : पठित-अवबोधनम् (30 अङ्काः)
  1. अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
  2. प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
  3. प्रश्नसङ्ख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
  4. सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।
  5. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।

खण्डः – क (10 अङ्काः)
अपठितांश-अवबोधनम्

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत –
    एकदा द्वौ धनिकौ आस्ताम्। तयोः धनिकयोः मध्ये विवादः जातः। उभौ अपि न्यायालयं गतवन्तौ। एकः धनिकः अचिन्तयत् – अहं लक्षं रूप्यकाणि न्यायाधीशाय उत्कोचरूपेण ददामि इति। सः स्यूते लक्षं रूप्यकाणि स्थापयित्वा न्यायाधीशस्य गृहं गतवान्। न्यायाधीशः तस्य मन्तव्यं ज्ञात्वा क्रुद्धः अभवत्। धनिकः न्यायाधीशम् अवदत्-भोः ! मत्सदृशाः लक्षरूप्यकाणां दातारः दुर्लभाः एव। न्यायाधीशः धनिकम् अवदत्- लक्ष-लक्षरूप्यकाणां दातारः कदाचित् अन्ये अपि भवेयुः परन्तु लक्षरूप्यकाणां निराकर्तारः मत्सदृशाः अन्ये विरलाः एख। अतः कृपया गच्छतु। न्यायस्थानं मलिनं मा करोतु। लज्जितः धनिकः धनस्यूतं गृहीत्वा ततः निर्गतः।

    1. एकपदेन उत्तरत- (केवलं प्रश्नचतुष्टयम्) (½×4=2)
      1. कयोः मध्ये विवादः जातः?
      2. कः लज्जितः भूत्वा निर्गतः?
      3. उभौ कुत्र गतवन्तौ?
      4. धनिकः कति रूप्यकाणि न्यायाधीशाय दातुम् इच्छति स्म?
      5. लज्जितः धनिकः किं गृहीत्वा निर्गतः?
    2. पूर्णवाक्येन लिखत – (केवलं प्रश्नद्वयम्) (1×2=2)
      1. धनिकः न्यायाधीशं किम् अवदत्?
      2. न्यायाधीशः किम् अवदत्?
      3. एकः धनिकः किम् अचिन्तयत्?
    3. स यथानिर्देशम् उत्तरत – (केवलं प्रश्नचतुष्टयम्) (1×4=4)
      1. ‘एकदा द्वौ धनिकौ आस्ताम्’ अत्र किं क्रियापदम्?
        (क) एकदा
        (ख) धनिकौ
        (ग) आस्ताम्
      2. ‘लज्जितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
        (क) न्यायाधीशः
        (ख) धनिकः
        (ग) दातारः
      3. ‘निर्धनः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
        (क) न्यायाधीशः
        (ख) धनिकः
        (ग) विवादः
      4. ‘अहं लक्षं रूप्यकाणि….ददामि’ अस्मिन् वाक्ये ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
        (क) धनिकाय
        (ख) न्यायाधीशाय
        (ग) न्यायालयाय
      5. शान्तः’ इति पदस्य विलोमपदं चित्वा लिखत।
        (क) लज्जितः
        (ख) क्रुद्धः
        (ग) धनिकः
    4. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत- (2)

खण्डः – ख (15 अङ्काः)
रचनात्मककार्यम्

  1. भवत्याः नाम अदितिः अस्ति। भवत्याः विद्यालये पर्यावरणदिवसः परिपालितः। एतद्-विषये स्वसखीं प्रेरणां प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु। (½×10=5)
    परीक्षाभवनात्
    दिनाङ्कः ………..
    प्रिये i. ………..
    ii. ……….. नमस्ते।
    ह्यः एव मम विद्यालये iii. ……….. मानितः। सर्वे छात्राः iv. ……….. आसन्। छात्राः अध्यापकैः सह पादपानाम् v. ……….. व्यस्ताः आसन्। मम विद्यालयस्य परिसरे तु vi. ……….. प्रसृतः। एकादश-द्वादशकक्षायाः छात्राः विद्यालयात् बहिः गत्वा vii. ……….. उभयतः पादपान् viii. ………..। सर्वे जनाः अस्माकं विद्यालयस्य छात्राणां प्रयासस्य ix. ……….. कृतवन्तः। यदि सर्वे विद्यालयाः एवं कुर्यः तर्हि x. ……….. रक्षणं स्यात्।
    भवदीया अभिन्ना सखी
    अदितिः।

    मञ्जूषा
    हरितिमा, उत्साहिता, प्रशंसाम्, आरोपितवन्तः, प्रेरणे, मार्गम्, आरोपणे, सस्नेहम्, पर्यावरणदिवसः, वातावरणस्य।
  2. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (2×5=10)
    मञ्जूषा
    बालिकाः, शिक्षिका, व्यजनानि, वातानुकूलनयन्त्रम्, आसन्दाः, उत्पीठिका, तिष्ठन्ति, ध्यानेन शृण्वन्ति, विद्युत्-फलकम् (स्मार्टबोर्ड), महापुरुषाणां चित्राणि, अग्निशमनयन्त्रम्, भित्तौ, कक्षा।

    CBSE Sample Papers Class 10 Sanskrit 2019

    अथवा

    मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखित विषयम् अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत- (2×5=10)
    “वृक्षाणां महत्त्वम्”

    मञ्जूषा
    प्रकृतेः शोभा, पर्यावरणस्य, रक्षकाः, यच्छन्ति, प्राणवायुम्, औषधम्, काष्ठम्, फलानि, पुष्पाणि, मेघवर्षणे, सहायकाः, छायाम्, विहगानाम्, आश्रयस्थलम्।

खण्डः ग (25 अङ्काः)
अनुप्रयुक्तव्याकरणम्

  1. अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धि सन्धिच्छेदं वा कुरुत – (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. सः तु स्वपरिवारस्य नयनम् अस्ति।
    2. युधिष्ठिरः वने पिपासा + आकुलः अभवत्।
    3. एकम् अनुच्छेदं लिखत।
    4. आलस्यं हि मनुष्याणां शरीरस्थः + महान रिपुः अस्ति।
    5. सर्वथा जागरूको + अहं छात्राणां कृते आदर्शः एव।
  2. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. रामः च लक्ष्मणः च विश्वामित्रस्य शिष्यौ आस्ताम्।
      (क) रामलक्ष्मणाः
      (ख) रामलक्ष्मणौ
      (ग) रामलक्ष्मणे
    2. सङ्कटापन्नं बालकं माता रक्षति।
      (क) सङ्कटा पन्नम्
      (ख) सङ्कटाम् आपन्नम्
      (ग) सङ्कटम् आपन्नम्
    3. निर्जलं इदं क्षेत्रम्।
      (क) जलस्य योग्यम्
      (ख) जलस्य अभावः
      (ग) जलं प्रति
    4. न विवेकः परमापदां पदम्।
      (क) अविवेकः
      (ख) नविवेकः
      (ग) अनविवेकः
    5. नीलगगनं शोभते।
      (क) नीलं गगनम्
      (ख) नील गगनम्
      (ग) नीलस्य गगनम
  3. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. त्वया पाठः स्मर्तव्यः
      (क) स्मृ + तव्यः
      (ख) स्मृ + तव्यत्
      (ग) स्मर् + तव्यः
    2. शक्ति + मतुप जनः रक्षति सर्वम्।
      (क) शक्तिवान्
      (ख) शक्तिमानः
      (ग) शक्तिमान्
    3. कर्मशीलः योगी कथ्यते।
      (क) योगि + इनि
      (ख) योग + मतुप्
      (ग) योग + इनि
    4. पूजनेन प्रसन्न + टाप् लक्ष्मीः कृपां करिष्यति।
      (क) प्रसन्ना
      (ख) प्रसन्नम्
      (ग) प्रसन्नः
    5. धनस्य महत्त्वं सर्वे जानन्ति।
      (क) महा + त्वम्
      (ख) मह + त्व
      (ग) महत् + त्व
  4. मञ्जूषायां प्रदत्तैः पदैः वाच्यपरिवर्तनं कृत्वा अधोलिखितं संवादं पुनः लिखत-(1×3=3)
    रामः – श्याम ! अद्य विद्यालये चेन्नईतः छात्राः आगच्छन्ति।
    श्यामः – मित्र ! छात्रैः चेन्नईतः किमर्थम् i. ………..? ते इदानीं कुत्र तिष्ठन्ति?
    रामः – मित्र ! ते प्रतियोगितायै अत्र आगताः। इदानीं ii. ……….. छात्रावासे स्थीयते।
    श्यामः – किं ते संस्कृतम् अपि जानन्ति?
    रामः – आम् ! तैः iii. ……….. ज्ञायते। ते संस्कृतं भाषन्ते अपि।

    मञ्जूषा
    संस्कृतम्, आगम्यते, तैः।

    अथवा

    अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत-

    1. बालकः ग्रामं गच्छति।
    2. अर्केण लेखौ लिख्येते।
    3. युवकाः चित्राणि पश्यन्ति।
  5. कालबोधकशब्दैः अधोलिखित-दिनचर्यायां वा पूरयत – (केवलं प्रश्नचतुष्टयम्) (½×4=2)
    1. अहं प्रातःकाले 5:30 वादने ……….. जागरणं करोमि।
    2. अहं 6:15 वादने …….. व्यायामं करोमि।
    3. अहं 7:45 वादने …….. विद्यालयं गच्छामि।
    4. 2:00 वादने ………. विद्यालयस्य अवकाशः भवति।
    5. रात्रौ 8:30 वादने …………………. अहं भोजनं करोमि।
  6. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. अहं ……….. अत्र वृष्टेः अभिनन्दनं करोमि।
    2. यदा दुष्टबुद्धिः कलशस्य आवरणम् अपसारयति ……….. भयङ्करं विषधरं पश्यति।
    3. सूपकाराणां मेषेण सह एषः कलहः ………. भवतां विनाशकारणं भविष्यति।
    4. ……….. वारणावते त्वमेव पाण्डवान् रक्षितवान्।
    5. ……….. कोलाहलं करोति।
      मञ्जूषा-। किमर्थम्, नूनम्, तदा, पुरा, एव।
  7. अधोलिखितवाक्येषु रेखाङ्कितपदम् अशुद्धम् अस्ति। अशुद्धं पदं संशोध्य पुनः लिखत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. सः बालकः खादामि
    2. किं त्वं ह्यः आगमिष्यसि?
    3. सः उद्यानं विशालम् अस्ति।
    4. अहं अद्य विद्यालयं न गमिष्यामः।
    5. छात्रः ग्रामं गच्छन्ति

खण्डः – घ (30 अङ्काः)
पठित-अवबोधनम्

  1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (6)
    अथ कदाचित् दानशालासु विचरन् सः राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत् -“मम अर्थिनस्तु धनलाभमात्रेण सन्तोषं भजन्ते। नूनं ते दानवीराः। सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि अपि याचन्ते।” एवं राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।

    1. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1×2=2)
      1. राज्ञः निरासक्तिः केषु अभवत्?
      2. राजा कुत्र विचरन् आसीत्?
      3. अर्थिनः केन सन्तुष्टाः आसन्?
    2. पूर्णवाक्येन उत्तरत। (केवलम् प्रश्नमेकम्) (2×1=2)
      1. राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय किं सञ्जातम्?
      2. अर्थिनां विरलसंख्यां विलोक्य राजा किम् अचिन्तयत्?
    3. स. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) (½×4=2)
      1. ‘मम अर्थिनस्तु धनलाभमात्रेण सन्तोषं भजन्ते’ अत्र ‘मम’ पदं कस्मै प्रयुक्तम्?
        (क) याचकेभ्यः
        (ख) राज्ञे
        (ग) दानशालायै
      2. ‘अचिन्तयत्’ इति पदस्य कर्तृपदं किम्?
        (क) दानवीराः
        (ख) याचकः
        (ग) राजा
      3. ‘अर्थिनाम्’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्?
        (क) याचकानाम्
        (ख) सन्तुष्टानाम्
        (ग) विरलसंख्याम्
      4. याचकाः’ इति पदस्य किं क्रियापदं गद्यांशे प्रयुक्तम्?
        (क) याचन्ते
        (ख) अचिन्तयत्
        (ग) भजन्ते
      5. ‘विज्ञाय’ इति पदस्य पर्यायपदं गद्यांशात् चित्वा लिखत।
        (क) सन्तोषम्
        (ख) ज्ञात्वा
        (ग) सकलम्
  2. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- (6)
    चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवदृढम्।
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।

    1. एकपदेन उत्तरत – (केवलं प्रश्नद्वयम्) (1×2=2)
      1. मनसः निग्रहः कस्य इव दुष्करः?
      2. चञ्चलं किम् अस्ति?
      3. अर्जुनः कं सम्बोधयति?
    2. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नमेकम्) (2×1=2)
      1. अस्मिन् श्लोके अर्जुनः कं सम्बोधयति?
      2. मनसः निग्रहं कः सुदुष्करं मन्यते?
    3. निर्देशानुसारम् उत्तरत- (केवलं प्रश्नचतुष्टयम्) (½×4=2)
      1. “तस्य” इति सर्वनामपदम् कस्मै प्रयुक्तम्?
        (अ) कृष्णः
        (ब) अर्जुनाय
        (स) मनसे
      2. “अहम्” इति कर्तृपदस्य क्रियापदं किम्?
        (अ) प्रमाथि
        (ब) मन्ये
        (स) सुदुष्करम्
      3. “चञ्चलं मनः” अनयोः पदयोः किं विशेष्यपदम्?
        (अ) चञ्चलम्
        (ब) मनः
        (स) चञ्चलं मनः
      4. “अतिकठिनम्” इत्यस्य पदस्य कः पर्यायः श्लोके प्रयुक्तम्?
        (अ) चञ्चलम्
        (ब) निग्रहम्
        (स) सुदुष्करम्
      5. “प्रमाथि मनः” अत्र किं विशेषणपदम्?
        (अ) प्रमाथि
        (ब) मनः
        (स) प्रमाथि मनः
  3. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत – (6)
    (ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति)
    द्रौपदी – (दीर्घ निःश्वस्य) हा हन्त ! किम् इदं घोरम् आपतितम्?
    पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम् अयं शोकः।
    युधिष्ठिरः – शुभे! धैर्य धारय। नूनं तव पुत्राः वीरगतिम् एव प्राप्ता। वीरजननी त्वं शोचितुं न अर्हसि।
    द्रौपदी – कथं मन्दभाग्या अहं धैर्य धारयामि। यावत् असौ क्रूरकर्मा न दण्ड्यते, तावत् अहम् इतः न गमिष्यामि, अत्रैव च प्राणत्यागं च करिष्यामि।
    युधिष्ठिरः – प्रिये ! मा एवं ब्रूयाः। सः पापकर्मा कुत्र गतः, इति न जानीमः। अतिदूरं किञ्चिद् दुर्गमवनं प्रविष्टः भवेत्।

    1. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्) (1×2=2)
      1. केन द्रौपद्याः पुत्रः भ्रातरः च हताः?
      2. द्रौणिः कीदृशः आसीत्?
      3. ‘अत्रैव च प्राणत्यागं च करिष्यामि’ इति का वदति?
    2. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नमेकम्) (2×1=2)
      1. पुत्रशोकसन्तप्ताः के आसन्?
      2. का शोचितुं न अर्हति?
    3. स. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत- (½×4=2)
      1. नाट्यांशे ‘दहति’ इति क्रियायाः कर्तृपदं किम्?
        (क) इव
        (ख) माम्
        (ग) शोकः
      2. ‘मन्दभाग्या अहं धैर्य धारयामि?’ अस्मिन् वाक्ये ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
        (क) युधिष्ठिराय
        (ख) द्रौपद्ये
        (ग) भीमाय
      3. ‘सः पापकर्मा कुत्र गतः’ इत्यत्र ‘सः’ इति विशेषणपदस्य विशेष्यं पदं किम्?
        (क) पापकर्मा
        (ख) सः
        (ग) कुत्र
      4. नाट्यांशे ‘धीरताम्’ इत्यर्थे किं पदं प्रयुक्तम्?
        (क) घोरम्
        (ख) धैर्यम्
        (ग) आपतितम्
      5. ‘दहति’ इति क्रियापदस्य कर्तृपदं गद्यांशात् चित्वा लिखत।
        (क) शोकः
        (ख) अग्निः
        (ग) माम्
  4. रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत- (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. रामेण विचित्रः स्वप्नः दृष्टः।
    2. पाठकस्य षट् गुणाः सन्ति।
    3. दानशालासु विचरन् राजा अचिन्तयत्।
    4. जनकेन सुताय शैशवे विद्याधनं दीयते।
    5. सूर्यं विना कालस्य गणना न सम्भवति
  5. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकयोः अन्वये पूरयत-
    1. अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
      व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्।।
      (½×4=2)
      अन्वयः- हे i. ………..! तव अयं कोशः कः अपि ii. ……….. विद्यते।
      व्ययतः iii. ……….. याति iv. ……….. च क्षयम् आयाति।
    2. अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।
      जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्।। (½×4=2)

      अन्वयः- जगत्पतेः i. …………. सृष्टिः हि ii. …………… रमणीया।
      सर्वे जीवाः iii. …………… परस्परं भावयन्तः iv……………..।
      मञ्जूषा- एषा, वृद्धिम्, अधुना, अपूर्वः, भारति, अत्र, सञ्चयात् , मोदन्ताम्।
  6. अधोलिखितानां कथनानां समुचितं भावं विकल्पेभ्यः चित्वा लिखत – (केवलं प्रश्नचतुष्टयम्) (1×4=4)
    1. भवतः दानवीरताम् आकर्ण्ये आगतोऽस्मि।
      (क) श्रुत्वा।
      (ख) दृष्ट्वा
      (ग) अवगम्य
    2. तस्मात् संहर दिव्यं त्वम् अस्त्रम्।
      (क) गृहाण
      (ख) अलौकिकम्
      (ग) रोधय
    3. साधुवृत्ति समाचरेत्।
      (क) वेशम्
      (ख) भिक्षाटनम्
      (ग) सदाचरणम्
    4. आचार्यात् पादम् आदत्ते।
      (क) श्लोकस्य पंक्तिम्
      (ख) चतुर्थांशम्
      (ग) शिक्षकात्
    5. हेयम् अपि च किम्?
      (क) नेयम्
      (ख) त्याज्यम्
      (ग) गेयम्

These are questions only. To view and download complete question paper with solution install myCBSEguide App from google play store or login to our student dashboard.

Download myCBSEguide App

CBSE Sample Papers for Class 10 2018-19 in PDF

To download sample paper for class 10 Science, Mathematics, Social Science, English Communicative, English Language and literature, Hindi Course A  and Hindi course Bdo check myCBSEguide app or website. myCBSEguide provides sample papers with solution, test papers for chapter-wise practice, NCERT solutions, NCERT Exemplar solutions, quick revision notes for ready reference, CBSE guess papers and CBSE important question papers. Sample Paper all are made available through the best app for CBSE students and myCBSEguide website.

Deal of the Day
Latest Sample Papers 149/-
Test Paper & Worksheets 299/-
Click Here & Tap Shop

myCBSEguide App


Install myCBSEguide mobile app for FREE sample papers, Test Papers, Revision Notes, Previous year question papers, NCERT solutions and MCQ tests. Refer myCBSEguide App to your friends and Earn upto Rs.500/-.
myCBSEguide AppmyCBSEguide app install

Leave a Comment