Home » NCERT Solutions » उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् – NCERT Solutions Class 9 Sanskrit Sharda

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् – NCERT Solutions Class 9 Sanskrit Sharda

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् – NCERT Solutions Class 9 Sanskrit Sharda includes all the questions with solutions given in NCERT Class 9 Sanskrit Sharda textbook.

NCERT Solutions Class 9

English Kaveri Hindi Ganga Sanskrit Sharada Maths Ganita Manjari Science Exploration Social Understanding Society

उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत् – NCERT Solutions

Q.1: नरस्य वृत्तं के जानन्ति?

Solution: आदित्यचन्द्रवनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च, अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम्।

Q.2: धर्मबुद्धयः किं वीक्षन्ते?

Solution: धर्मबुद्धयः परदारेषु मातृवत्, परद्रव्येषु लोष्टवत्, सर्वभूतेषु च आत्मवत् वीक्षन्ते।

Q.3: कस्य जन्मनः फलं व्यर्थम्?

Solution: येन देशान्तरेषु बहुविधभाषावेषादि न ज्ञातं, तस्य धरणीपीठे जन्मनः फलं व्यर्थम्।

Q.4: पापबुद्धिः स्वपितरं किम् उक्तवान्?

Solution: पापबुद्धिः स्वपितरम् उक्तवान् यत् मया धर्मबुद्धेः प्रभूतं धनं चोरितम्, यदि भवान् मदुक्तप्रकारेण साक्ष्यं वदति तर्हि तद्धनं अस्माकं समीपे स्थिरं तिष्ठति।

Q.5: मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति?

Solution: मानवः यदा देशात् देशान्तरं हृष्टः व्रजति, तदा सम्यक् विद्यां वित्तं शिल्पं च प्राप्नोति।

Q.6: पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थितः?

Solution: पापबुद्धिः चिन्तितवान् यत् “अहं मूर्खः दरिद्रश्च अस्मि, अतः धर्मबुद्धिं स्वीकृत्य देशान्तरं गत्वा तस्य आश्रयेण धनं सम्पादयिष्यामि, अनन्तरं तं वञ्चयित्वा सुखी भविष्यामि।”

Q.7: एनम् अपि वञ्चयित्वा सुखी भवामि।

Solution: कम् अपि वञ्चयित्वा सुखी भवामि?

Q.8: सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः।

Solution: सर्वं धनं स्वीकृत्य कुत्र गच्छावः?

Q.9: निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान्।

Solution: कदा अटव्यां गत्वा तत् सर्वं वित्तं आनीतवान्?

Q.10: तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः।

Solution: तत् आकर्ण्य सर्वे ते जनाः कीदृशाः सञ्जाताः?

Q.11: अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि।

Solution: अहम् एतत् शमीकोटरं केन प्रज्वालयामि?

Q.12: अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति लिखत-

  कः कं प्रति
(क) वत्स! द्रुतं वद येन तद् द्रव्यं स्थिरं तिष्ठेत्।    
(ख) प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम्।    
(ग) त्वया हृतं एतद्धनं, नान्येन।    
(घ) भोः दुरात्मन्! मा मैवं वद।    
(ङ) एतत् सर्वमपि पापबुद्धेः चेष्टितम्।

Solution:
कः कं प्रति
(क) वत्स! द्रुतं वद येन तद् द्रव्यं स्थिरं तिष्ठेत्। पिता पापबुद्धिं प्रति
(ख) प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम्। धर्माधिकारी धर्मबुद्धि-पापबुद्ध्योः प्रति
(ग) त्वया हृतं एतद्धनं, नान्येन। पापबुद्धिः धर्मबुद्धिं प्रति
(घ) भोः दुरात्मन्! मा मैवं वद। धर्मबुद्धिः पापबुद्धिं प्रति
(ङ) एतत् सर्वमपि पापबुद्धेः चेष्टितम्। पापबुद्धेः पिता सर्वान् जनान् प्रति

Q.13: उदाहरणानुसारं भूतकालिकवाक्यानि वर्तमानकालिकवाक्येषु परिवर्तयत-

भूतकालिकवाक्यानि वर्तमानकालिकवाक्यानि
उदाहरणम् – भवानपि मया सहैव प्रभूतं धनं प्राप्तवान्। भवानपि मया सहैव प्रभूतं धनं प्राप्नोति।
(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः।
(ख) पापबुद्धिः अत्यधिकं धनं सम्पादितवान्।

(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान्।
(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्।

(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः। __

Solution:
भूतकालिकवाक्यानि वर्तमानकालिकवाक्यानि
(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः। दण्डयन्ति
(ख) पापबुद्धिः अत्यधिकं धनं सम्पादितवान्। सम्पादयति
(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान्। आगच्छति
(घ) अत्रान्तरे पापबुद्धि: शिरस्ताडयन् उक्तवान्। वदति
(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः। प्रशंसन्ति

Q.14: सूर्यः चन्द्रः अग्निः आकाशः भूमिः जलं यमः दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं __ जानन्ति। अतः वयं सर्वदा उत्तमं व्यवहारं कुर्मः। (व्यवहारं/पवनः / हृदयं)

Solution: पवनः, हृदयं, व्यवहारं

Q.15: यः न अटति, विविधदेशानां संस्कृतिः च न जानाति, पृथिवीपृष्ठे तस्य जन्म __ भाति। (भाषाः / व्यर्थं/अन्यदेशेषु)

Solution: अन्यदेशेषु, भाषाः, व्यर्थं

Q.16: सज्जनाः सर्वासु नारीषु इव, अन्येषां मृत्पिण्डम् इव, सर्वेषु प्राणिषु च __ इव चिन्तयन्ति। (द्रव्येषु/स्वयम्/मातरः)

Solution: मातरः, द्रव्येषु, स्वयम्

Q.17: बुद्धिमान् मनुष्यः मार्गान् समस्यादूरीकरणस्य__ (कौशलानि/कार्यसाधनस्य/ जानीयात्)

Solution: कार्यसाधनस्य, कौशलानि, जानीयात्

Q.18: उदाहरणं दृष्ट्वा अधोलिखितानां पदानां विग्रहं मेलनं वा कुरुत-

उदाहरणम् – अर्थोपार्जनम् अर्थस्य उपार्जनम्

(क) गुरुजनाज्ञया

(ख) वनदेवता
(ग)
वित्तस्य अभावात्
(घ) बुद्धिप्रभावेण
(ङ)
धरण्याः पीठे
(च) राजकुले __

Solution:
(क) गुरुजनाज्ञया

गुरुजनानां आज्ञया

(ख) वनदेवता वनस्य देवता
(ग) वित्ताभावात् वित्तस्य अभावात्
(घ) बुद्धिप्रभावेण बुद्धेः प्रभावेण
(ङ) धरणीपीठे धरण्याः पीठे
(च) राजकुले राज्ञः कुले

Q.19: अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुनः लिखत-

भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति।
ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ।
द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ।
कस्मिश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।
यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ।
राजपुरुषाः पापबुद्धिं दण्डितवन्तः।

Solution:
(4) कस्मिश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म।

(2) ततस्तौ गुरुजनानां अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ।

(5) यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ।

(3) द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ।

(1) भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति।

(6) राजपुरुषाः पापबुद्धिं दण्डितवन्तः।

Class 9 Sanskrit Sharda NCERT Solutions

myCBSEguide App

Test Generator

Create question paper PDF and online tests with your own name & logo in minutes.

Create Now
myCBSEguide App

Learn8 App

Practice unlimited questions for Entrance tests & government job exams at ₹99 only

Install Now