आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः – NCERT Solutions Class 9 Sanskrit Sharda includes all the questions with solutions given in NCERT Class 9 Sanskrit Sharda textbook chapter name Aatmavat sarva-bhooteshu yah pashyati sah panditah.
NCERT Solutions Class 9
English Kaveri Hindi Ganga Sanskrit Sharada Maths Ganita Manjari Science Exploration Social Understanding Societyआत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः– NCERT Solution
Q.1: मातामही कस्य कथां श्रावितवती?
Solution: मातामही महात्मा नामदेव-महाराजस्य कथां श्रावितवती।
Q.2: नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्?
Solution: नामदेवस्य गुरुः ‘ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासः भवति’ इति अध्यापितवान्।
Q.3: नामदेवः क्या भावनया धावनं कृतवान्?
Solution: नामदेवः करुणया भावनया धावनं कृतवान्।
Q.4: बालकयोः मुखे किमर्थं म्लाने संजाते?
Solution: बालकयोः मुखे अपराधभावनया म्लाने संजाते।
Q.5: कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ?
Solution: तौ ‘कस्यापि पीडा न भवेत्, पीडां निवारयितुं प्रयतामहे’ इति संकल्पं कृतवन्तौ।
Q.6: तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः?
Solution: ‘तं’ इति सर्वनामपदं ‘शुनकाय’ प्रयुक्तम्।
Q.7: कपिलः माधवी च कुत्र गतवन्तौ?
Solution: कपिलः माधवी च मातुलगृहं गतवन्तौ।
Q.8: ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’। इति वाक्ये ‘तौ’ इति शब्द: कस्यां विभक्तौ अस्ति?
Solution ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’ इति वाक्ये ‘तौ’ इति शब्द: द्वितीयाविभक्तौ अस्ति।
Q.9: अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत-
यथा- नामदेव: स्थालिकां स्वीकृत्य मन्दिरं गच्छति।
नामदेव: स्थालिकां स्वीकृत्य मन्दिर्ंर गतवान्।
नैवेद्यं विग्रहस्य पुरतः स्थापयति।
नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति।
गुरुः विसोबा तम् अध्यापयति।
अहं शृणोमि।
सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
नामदेवः शुनकस्य पृष्ठे अनुधावति।
Solution:
नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।
नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।
गुरुः विसोबा तं अध्यापितवान्।
अहं श्रुतवान्।
सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।
नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।
Q.10: अधोलिखितानि कथनानि कः/का/कं/कामं च प्रति कथयति इति लिखत-
कः/का कं/कां प्रति
यथा- हे देव! शुष्कां रोटिकां न खादतु घृतमपि स्वीकरोतु। नामदेव: शुनकम्
(क) कथां श्रोतुम् इच्छतः वा?
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।
(ग) किं देवेन सह अपि मित्रता सम्भवति?
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुर।
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुर।
(च) धिक् शुनकम्।
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु?
(ज) किं घृतपात्रम् आधृत्य?
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति।
(ञ) उत्तीर्णः भवान् परीक्षाम्।
Solution:
कः/का कं/कामं प्रति
(क) कथां श्रोतुम् इच्छतः वा? मातामही कं/कामं प्रति
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति। माधवी मातामहीं प्रति
(ग) किं देवेन सह अपि मित्रता सम्भवति? कपिलः मातामहीं प्रति
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुर। विसोबा खेचरः (गुरुः) नामदेवं प्रति
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुर। नामदेवः देवं (पाण्डुरङ्गं) प्रति
(च) धिक् शुनकम्। कपिलः माधवीं प्रति
(छ) नामदेवस्य कियत् दु:खं जातं स्यात् खलु? माधवी मातामहीं प्रति
(ज) किं घृतपात्रम् आधृत्य? कपिलः मातामहीं प्रति
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति। नामदेवः गुरुं (विसोबां) प्रति
(ञ) उत्तीर्णः भवान् परीक्षाम्। विसोबा खेचरः (गुरुः) नामदेवं प्रति
Q.11: देवः नामदेवं परितः भवति स्म।
Solution: देवः कं परितः भवति स्म?
Q.12: ईश्वरः सर्वेषु भूतेषु निवसति।
Solution: ईश्वरः कुत्र/केषु निवसति?
Q.13: शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
Solution: शुनकः आगत्य मुखे किं धृत्वा धावितवान्?
Q.14: शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
Solution: कस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्?
Q.15: आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः।
Solution: कथम् सर्वभूतेषु यः पश्यति स पण्डितः?
Q.16: घटनाक्रमानुसारं लिखत-
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्धाटितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(घ) शुनक: शुष्करोटिकाम् अपह्तत्य पलायितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(च) नामदेवः मन्दिरं गतवान्।
Solution:
(च) नामदेवः मन्दिरं गतवान्।
(ग) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
(घ) शुनक: शुष्करोटिकाम् अपहृत्य पलायितवान्।
(ख) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
(ङ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
(क) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्धाटितवान्।
Q.17: कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्ति योजयित्वा अनुच्छेद पूरयत-
आगच्छन्तु , पायसं कुर्म:
आगच्छन्तु , पायसं कुर्मः। (क्षीर) सह तण्डुला: पक्वाः।
(शर्करा) विना कथं शक्यते। शीघ्रमेव (आपण) प्रति गत्वा शर्कराम् आनयतु। (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता। (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। (मधुर) विना पायसं रुचिकरं न भवति। अधुना
(पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक्
(अन्ये मधुरपदार्थाः) इति एक: वदति, (तत्) विना जीवनम् अपूर्णम् इति अपरः। (पायस) सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्या: अम्बाया: मुखे मन्दहासः विलसति।
Solution:
आगच्छन्तु, पायसं कुर्मः। क्षीरेण (क्षीर) सह तण्डुला: पक्वाः। शर्करां (शर्करा) विना कथं शक्यते। शीघ्रमेव आपणं (आपण) प्रति गत्वा शर्कराम् आनयतु। आपणं (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता। शर्करां (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। मधुरं (मधुर) विना पायसं रुचिकरं न भवति। अधुना पायसं (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् (अन्ये मधुरपदार्थाः) इति एक: वदति, तेन (तत्) विना जीवनम् अपूर्णम् इति अपरः। पायसेन (पायस) सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्या: अम्बाया: मुखे मन्दहासः विलसति।
Q.18: अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत-
कश्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलम् अददात्। जनाः तस्याः जलं पीत्वा सुखेन अजीवन्। एकः कृषकः तेन आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः जलेन सर्वदा कृषिम् अकरोत्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् अकुर्वन्। महिलाः पर्वसमये नदीम् अपूजयन्। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि अक्षिपत्। क्रमशः अन्ये अपि अक्षिपन्। तेन नदी मलिना अभवत् , मीनाः अम्रियन्त। स्त्रियः रोगैः पीडिताः अभवन्। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् अवदत्। सा नदीतीरम् आगत्य स्वयं वृक्षम् अरोपयत्। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् अकुर्वन्। सर्वे ग्रामवासिनः मिलित्वा नदीम् अशोधयन्। पुनः नदी स्वच्छा जाता निर्मलं जलं च अददात्। ततः आरभ्य वर्षे एकवारं जनाः नदीम् अपूजयन् वृक्षरोपणं च अकुर्वन्।
Solution:
कश्चित् ग्रामं निकषा एका नदी आसीत् (आसितवती)। नदी सर्वदा स्वच्छजलम् दत्तवती (अददात्)। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः (अजीवन्)। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान् (अकरोत्)। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः (अकुर्वन्)। महिलाः पर्वसमये नदीम् पूजितवत्यः (अपूजयन्)। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान् (अक्षिपत्)। क्रमशः अन्ये अपि क्षिप्तवन्तः (अक्षिपन्)। तेन नदी मलिना अभवत् (भूतवती), मीनाः मृतवन्तः (अम्रियन्त)। स्त्रियः रोगैः पीडिताः अभवन् (भूतवत्यः)। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती (अवदत्)। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती (अरोपयत्)। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः (अकुर्वन्)। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः (अशोधयन्)। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती (अददात्)। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः (अपूजयन्) वृक्षरोपणं च कृतवन्तः (अकुर्वन्)।
Q.19: एतेषां समस्तपदानि पाठात् चित्वा लिखत यथा- महान् आत्मा, तेषां
यथा – महान् आत्मा, तेषां = महात्मनाम
घृतस्य पात्रम् तत्
पाषाणस्य खण्डः, तम्
प्रियः सुहृद्
उदरे वेदना
स्वीयः व्यवहारः
जीवनस्य मूल्यानि
मातुलस्य गृहम्, तत्
नरेषु रत्नानि इव, तेषाम्
स्वीयं कर्तृत्वम्, तेन
अपराधस्य भावना, तया
गुरोः उपदेशः, तम्
दिने दिने
राजा ऋषिः इव, तेषाम्
Solution:
विग्रह वाक्य समस्तपदम्
घृतस्य पात्रम्, तत् घृतपात्रम्
पाषाणस्य खण्ड: तम् पाषाणखण्डम्
प्रियः सुहृद् प्रियसखा / प्रियमित्रम्
उदरे वेदना उदरवेदना
स्वीयः व्यवहार: स्वीयव्यवहार:
जीवनस्य मूल्यानि जीवनमूल्यानि
मातुलस्य गृहम्, तत् मातुलगृहम्
नरेषु रत्नानि इव, तेषाम् नररत्नानाम्
स्वीयं कर्तृत्वम, तेन स्वकर्तृत्वेन
अपराधस्य भावना, तया अपराधभावनया
गुरोः उपदेशः, तम् गुरूपदेशम्
दिने दिने प्रतिदिनम्
राजा ऋषि: इव, तेषाम् राजर्षीणाम्
Class 9 Sanskrit Sharda NCERT Solutions
- प्रथम: पाठ: सत्यं शिवं सुन्दरं संस्कृतम्
- द्वितीय: पाठ: सुखस्य मूलं धर्मः धर्मस्य मूलम् अर्थः
- तृतीय: पाठ: आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
- चतुर्थ: पाठ: न खलु वयस्तेजसो हेतु:
- पज्चम: पाठ: एषा सा कृतकबुद्धि: मानवबुद्धे: सहकरी
- षष्ठ: पाठ: मनःपूतं समाचरेत्
- सप्तम: पाठ: उपायं चिन्तयेत् प्राजस्तथापायं च चिन्तयेत्
- अष्टम: पाठ: अन्नाट् आनन्दं प्रति
- नवम: पाठ: कृतं प्रतिकृतं भूयादेष धर्मः सनातनः
- दशम: पाठ: णमो अरिहन्ताणम्
- एकादश: पाठ: वर्णोच्चारण-शिक्षा
Test Generator
Create question paper PDF and online tests with your own name & logo in minutes.
Create Now
Learn8 App
Practice unlimited questions for Entrance tests & government job exams at ₹99 only
Install Now